समासपरिचयवर्गः (samAsa-parichaya-vargaH)(2025)

06/25/2025 - 08/27/2025

Description

समासपरिचयवर्गः

June 25 तः - September 3 पर्यन्तम् (बुधवासरेषु ) No Class July 16th.

When? What are the dates and timings?

वर्गस्य अवधिः - June 25 तः - September 3 पर्यन्तम् (बुधवासरेषु ) No Class July 16th

वर्गसमयः - सायं 9:00 तः 10:00 पर्यन्तम् (पूर्वतटीयसमयानुसारम् )

अयि भोः संस्कृतशास्त्रसेविनः !

गद्यपद्यात्मके सुविशाले संस्कृतवाङ्मयाब्धौ प्राप्यमाणैः ज्ञानामृतकणैः स्वजीवनं सार्थकीकर्तुकामेभ्यः भवद्भ्यः भवतीभ्यश्च संस्कृतभारतीयं समासपरिचयात्मकं नूतनवर्गम् आरब्धुं समुत्सुकास्ति| यत्र तत्रभवन्तः भवत्यश्च सामान्यतया सर्वविधसमासानां सोदाहरणं परिचयं प्राप्य समासप्रक्रियामपि ज्ञातुं शक्ष्यन्ति|

अतः यथासमयं वर्गम् आगत्य समासविषयकज्ञानेन लाभान्विताः भवन्तु तत्रभवन्तो भवत्यः इति निवेदयति भवतामियं संस्कृतभारती |

वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा 

भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठात् व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति| 

Where is the class conducted?

Classes are conducted online. Zoom link will be sent to registrants.

Who can register?

संस्कृतसम्भाषणावगमनं संस्कृतव्याकरणेन सामान्यपरिचयश्च।

FAQ and refund policy

FAQ link.