वर्गस्य अवधिः - June 23 तः - August 25 पर्यन्तम् (सोमवासरेषु )
Adults: वर्गस्य अवधिः - June 23 तः - August 25 पर्यन्तम् (सोमवासरेषु )
वर्गसमयः - सायं 9:00 तः 10:00 पर्यन्तम् (पूर्वतटीयसमयानुसारम् )
व्याकरणपरिचयवर्गः
अयि भोः संस्कृतरसिकाः !
काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति प्रसिद्धाभाणकानुसारं संस्कृतवाङ्मयाब्धौ प्रवेष्टुं व्याकरणशास्त्रं प्रथमसोपानत्वेन अङ्गीकरणीयं भवति इति अवगच्छन्तः वयं तत्रभवतां संस्कृतपिपठिषूणां सहायतायै शास्त्रीयदृष्ट्या व्याकरणवर्गान् सततं सञ्चालयितुं दत्तचित्ताः स्मः, परन्तु व्याकरणविषयाणाम् अधिगमनात् प्राग् “व्याकरणं नाम किम्? किमस्ति पाणिनीयव्याकरणस्य महत्त्वम् ऐतिह्यञ्च? के के सन्ति तदन्तर्गताः विषयाः? तान् अध्येतुं सहायकसामग्र्यश्च काः ? इत्यादिविषयान् आदाय “ व्याकरणपरिचयः” इति नाम्ना कश्चन वर्गः यथाशीघ्रमेव आयोज्यमानः अस्ति| अतः यथासमयं वर्गम् आगत्य व्याकरणविषयकज्ञानेन लाभान्विताः भवन्तु इति निवेदयति भवतां संस्कृतभारती |
वर्गसञ्चालिका - Dr. लक्ष्मीः शर्मा
भवती देहल्यां श्रीलालबहादुर-शास्त्री-राष्ट्रिय-संस्कृत-विद्यापीठात् व्याकरणविषये “विद्यावारिधि-उपाधिम्” प्राप्य कतिपयवर्षाणि तत्रैव पाठितवती| अधुना च अत्र अमेरिकादेशे मिशिगनराज्ये निवसति|
Classes are conducted online. Zoom link will be provided to the registrants.
संस्कृतसम्भाषणावगमनं संस्कृतव्याकरणेन सामान्यपरिचयश्च।
FAQ link.
Neon CRM by Neon One |